|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.90. अध्यायः 090
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
च्यवनेन कुशिकम्प्रति स्वस्य तद्गृहे निवासादेः कारणकथनम्॥ 1 ॥ तथा तस्य ब्राह्मण्यप्राप्तीच्छावगमेन तत्पौत्रादेस्तल्लाभवरदानम्॥ 2 ॥

Mahabharata - Anushaasana Parva - Chapter Text
च्यवन उवाच।
वरश्च गृह्यतां मत्तो यश्च ते संशयो हृदि।
तं प्रब्रूदि नरश्रेष्ठ सर्वं सम्पादयामि ते॥ 13-90-1(85045)
कुशिक उवाच। 13-90-2x(7075)
यदि प्रीतोसि भगवंस्ततो मे वद भार्गव।
कारणं श्रोतुसिच्छमि मद्गृहे वासकारितम्॥ 13-90-2(85046)
शयनं चैकपार्श्वेन दिवसानेकविंशतिम्।
न किञ्चिदुक्त्वा गमनं बहिश्च मुनिपुङ्गवः॥ 13-90-3(85047)
अन्तर्धानमकस्माच्च पुनरेव च दर्शनम्।
पुनश्च शयनं विप्र दिवसानेकविंशतिम्॥ 13-90-4(85048)
तैलाभ्यक्तस्य गमनं भोजनं च गृहे मम।
समुपानीय विविधं यद्दग्धं जातवेदसा॥ 13-90-5(85049)
निर्याणां च रथेनाशु सहसा यत्कृतं त्वया।
धनानां च विसर्गश्च वनस्यापि च दर्शनम्॥ 13-90-6(85050)
प्रासादानां बहूनां च काञ्चनानां महामुने।
मणिविद्रुमपादानां पर्यङ्काणां च दर्शनम्॥ 13-90-7(85051)
पुनश्चादर्शनं तस्य श्रोतुमिच्छामि कारणम्।
अतीव ह्यत्र मुह्यामि चिन्तयानो भृगूद्वह॥ 13-90-8(85052)
न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम्।
एतदिच्छामि कार्त्स्न्येन सत्यं श्रोतुं तपोधन॥ 13-90-9(85053)
च्यवन उवाच। 13-90-10x(7076)
शृणु सर्वमशेषेणि यदिदं येन हेतुना।
न हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव॥ 13-90-10(85054)
पितामहस्य वदतः पुरा देवसमागमे।
श्रुतवानस्मि यद्राजंस्तन्मे निगदतः शृणु। 13-90-11(85055)
ब्रह्मक्षत्रविरोधेन भविता कुलसङ्करः।
पौत्रस्ते भविता राजंस्तेजोवीर्यसमन्वितः॥ 13-90-12(85056)
ततः स्वकुलरक्षार्थमहं त्वां समुपागतः।
चिकीर्षन्कुशिकोच्छेदं संदिधक्षुः कुलं तव॥ 13-90-13(85057)
ततोऽहमागम्य पुरे त्वामवोचं महीपते।
नियमं कञ्चिदारप्सये शुश्रूषा क्रियतामिति॥ 13-90-14(85058)
न च ते दुष्कृतं किञ्चिदहमासादयं गृहे।
तेन जीवसि राजर्षे न भवेथास्त्वमन्यथा॥ 13-90-15(85059)
एवं बुद्धिं समास्थाय दिवसानेकविंशतिम्।
सुप्तोस्मि यदि मां कश्चिद्बोधयेदिति पार्थिव॥ 13-90-16(85060)
यदा त्वया सभार्येण संसुप्तो न प्रबोधितः।
अहं तदैव ते प्रीतो मनसा राजसत्तम॥ 13-90-17(85061)
उत्थाय चास्मि निष्क्रान्तो यदि मां त्वं महीपते।
पृच्छेः क्व यास्यसीत्येवं शपेयं त्वामिति प्रभो॥ 13-90-18(85062)
अन्तर्हितः पुनश्चास्मि पुनरेव च ते गृहे।
योगमास्थाय संसुप्तो दिवसानेकविंशतिम्॥ 13-90-19(85063)
क्षुधितौ मामसूयेथां श्रमाद्वेति नराधिप।
एतां बुद्धिं समास्थाय कर्शितौ वां क्षुधा मया॥ 13-90-20(85064)
न च तेऽभूत्सुसूक्ष्मोपि मन्युर्मनसि पार्थिव।
सभार्यस्य नरश्रेष्ठ तेन ते प्रीतिमानहम्॥ 13-90-21(85065)
भोजनं च समानाय्य यत्तदादीपितं मया।
क्रुध्येथा यदि मात्सर्यादिति तन्मर्षितं च मे॥ 13-90-22(85066)
ततोऽहं रथमारुह्य त्वामवोचं नराधिप।
सभार्यो मां वहस्वेति तच्च त्वं कृतवांस्तथा॥ 13-90-23(85067)
अविशङ्को नरपते प्रीतोऽहं चापि तेन ह।
धनोत्सर्गेऽपि च कृते न त्वां क्रोधोप्यधर्षयत्॥ 13-90-24(85068)
ततः प्रीतेन ते राजन्पुनरेतत्कृतं तव।
सभार्यस्य वनं भूयस्तद्विद्धि मनुजाधिप॥ 13-90-25(85069)
प्रीत्यर्थं तव चैतन्मे स्वर्गसंदर्शनं कृतम्।
यत्ते वनेऽस्मिन्नृपते दृष्टं दिव्यं सुदर्शनम्॥ 13-90-26(85070)
स्वर्गोद्देशस्त्वया राजन्सशरीरेण पार्थिव।
मुहूर्तमनुभूतोऽसौ सभार्येण नृपोत्तम॥ 13-90-27(85071)
निदर्शनार्थं तपसो धर्मस्य च नराधिप।
तत्र नासीत्स्पृहा राजंस्तच्चापि विदितं मया॥ 13-90-28(85072)
ब्राह्मण्यं काङ्क्षसे हि त्वं तपश्च पृथिवीपते।
अवमत्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव॥ 13-90-29(85073)
एवमेतद्यथातत्वं ब्राह्मण्यं तात दुर्लभम्।
ब्राह्मण्ये सति चर्षित्वमृषित्वे च तपस्विता॥ 13-90-30(85074)
भविष्यत्येष ते कामः कुशिकात्कौशिको द्विजः॥ 13-90-31(85075)
तृतीयं पुरुषं प्राप्य ब्राह्मणत्वं गमिष्यति।
वंशस्ते पार्थिवश्रेष्ठ भृगूणामेव तेजसा॥ 13-90-32(85076)
पौत्रस्ते भविता विप्रस्तपस्वी पावकद्युतिः।
`जमदग्नौ महाभाग तपसा भावितात्मनि॥' 13-90-33(85077)
यः स देवमनुष्याणआं भयमुत्पादयिष्यति।
त्रयाणामेव लोकानां सत्यमेतद्ब्रवीमि ते॥ 13-90-34(85078)
वरं गृहाण राजर्षे यस्ते मनसि वर्तते।
तीर्थयात्रां गमिष्यामि पुरा कालोऽतिवर्तते॥ 13-90-35(85079)
कुशिक उवाच। 13-90-36x(7077)
एष एव वरो मेऽद्य यत्त्वं प्रीतो महामुने।
भवत्वेतद्यथार्थत्वं भवेत्पौत्रो ममानघ॥ 13-90-36(85080)
ब्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः।
पुनश्चाख्यातुमिच्छामि भगवन्विस्तरेण वै॥ 13-90-37(85081)
कथमेष्यति विप्रत्वं कुलं मे भृगुनन्दन।
कश्चासौ भविता बन्धुर्मम कश्चापि सम्मतः॥ ॥ 13-90-38(85082)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि नवतितमोऽध्यायः॥ 90 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|